CBSE notes, revision, important questions, MCQs, mock tests & result analytics

Rachna prayog

AI Learning Assistant

I can help you understand Rachna prayog better. Ask me anything!

Summarize the main points of Rachna prayog.
What are the most important terms to remember here?
Explain this concept like I'm five.
Give me a quick 3-question practice quiz.

CBSE Learning Objectives – Key Concepts & Skills You Must Know

  • Understand the structure and purpose of letters in Sanskrit.
  • Identify different types of letters such as requests, invitations, and notifications.
  • Practice writing letters addressing various subjects and audiences.
  • Analyze the language and style used in formal correspondence.
  • Develop skills in expressing gratitude and making requests politely.

CBSE Revision Notes & Quick Summary for Last-Minute Study

रचना प्रयोग

1. पत्रम्

i) रुग्णताया: कारणात् अवकाशप्राप्तये प्रधानाचार्यं प्रति पत्रम्

  • सेवायाम्
    प्रधानाचार्य-महोदयाः
    केन्द्रीय विद्यालय:
    आर. के. पुरम्, सैक्टर:-द्वितीयः
    नवदेहली - 110022
    विषय: – अवकाशप्राप्तये निवेदनम्
    मान्यवराः/ महोदयाः,
    सविनयं निवेदनमस्ति यत् अहं शिरोवेदनया पीडितः अस्मि। एतस्मात्कारणात् अद्य विद्यालयम् आगन्तुमसमर्थः अस्मि। अत: प्रार्थये यत् दिनद्वयस्य अवकाशं प्रदाय अनुग्रहं कुर्वन्तु भवन्तः।
    धन्यवादा:
    भवतां विनीतः शिष्यः
    नरेन्द्र:
    कक्षा 10
    वर्ग: 'ब'
    दिनाङ्क :

ii) शुल्कक्षमापनार्थं प्रधानाचार्यं प्रति पत्रम्

  • सेवायाम्
    प्रधानाचार्य-महोदयाः
    केन्द्रीय-विद्यालयः
    व्याकरणवीथि:
    आर. के. पुरम्,
    सैक्टर: चतुर्थ:
    नवदेहली - 110022
    विषय: – शुल्कक्षमापनार्थं निवेदनम्
    मान्यवराः/ महोदयाः,
    सविनयं निवेदनमस्ति यत् अहं भवतः विद्यालये दशमकक्षायाः 'स' वर्गस्य छात्रः अस्मि। मम पिता एकस्मिन् विद्यालये द्वारपालः अस्ति। तस्य मासिकवेतनम् द्विसहस्ररूप्यकमात्रम् अस्ति। अस्माकं कुटुम्बे पञ्च सदस्या: सन्ति। अनेन वेतनेन कुटुम्बस्य निर्वाह: काठिन्येन भवति। अत: शुल्कक्षमापनार्थं प्रार्थये।
    आशासे यत् मदीयाम् इमां प्रार्थनां स्वीकृत्य शुल्कक्षमापनद्वारा माम् उपकरिष्यन्ति श्रीमन्तः।
    धन्यवादाः।
    दिनाङ्कः
    भवतां विनीतः शिष्यः
    सुरेन्द्रः
    कक्षा 10
    वर्ग: 'ब'

iii) पुस्तकानि प्रेषयितुं प्रकाशकं प्रति पत्रम्

  • सेवायाम्
    व्यवस्थापक-महोदया:
    आर्य बुक डिपो
    करोलबाग
    नवदेहली
    महोदय: / महोदया:,
    सेवायाम् निवेदनमस्ति यत् अहम् अधोलिखितानि पुस्तकानि क्रेतुम् इच्छामि। अत: यत् समुचितमुन्मोकं ( कमीशनं) निष्कास्य एतानि पुस्तकानि वी.पी. माध्यमेन प्रेषयन्तु भवन्तः। शीघ्रता प्रशंसनीया स्यात्।
    पुस्तकानां नामानि
    1. सरल संस्कृत व्याकरणम्
    2. निबन्धसौरभम्
    3. कथासागर:
      धन्यवादाः
      लेखकानां नामानि
      डॉ. परमानंदगुप्तः
      डॉ. अरुणेशकुमारः
      डॉ. वागीश:
      दिनाङ्कः
      प्रति
      भावत्कः
      अशोकः
      61/ जवाहरनगरम्
      मण्डी
      हिमाचल प्रदेश

2. अन्य पत्राः

iv) स्वभगिन्याः विवाहे आमन्त्रयितुं स्वमित्रं प्रति पत्रम्

  • व्याकरणवीथि:
    आर 688
    प्रिय मित्र,
    न्यू राजेन्द्र नगरम्
    दिल्ली:
    20.11.2012
    नमस्ते।
    इदं ज्ञात्वा प्रसन्नो भविष्यसि यत् भगवत्कृपया मम भगिन्याः लतायाः विवाहसंस्कारः अधोलिखितकार्यक्रमानुसारं सम्पत्स्यते। एतदर्थं सानुरोधं निमन्त्रयामि। आशासे यत् यथासमयं आगत्य अस्मान् प्रीणयिष्यसि।
    कार्यक्रमः
    मंगलवासरे
    26.11.2012
    बुधवासरे
    सायम् अष्टवादने वरयात्रीणां स्वागतम्
    प्रीतिभोजनम् च।
    27.11.2012
    स्वगृहे सर्वेभ्य: मम वन्दनं निवेदय।
    प्रातः पञ्चवादने लतायाः
    पतिगृहगमनम्।
    दर्शनाभिलाषी
    देवेन्द्रः
    दिनाङ्क:

3. अन्य विषयाः

v) पत्रम्

  • पितरौ प्रति परीक्षाया: परिणामसूचकं पत्रम्
    छात्रावास:
    केन्द्रीय-विद्यालयः
    देहलीछावनीत:
    नवदेहली
    वन्दनीया: पितृचरणा:
    सादरं प्रणम्यते यदहम् अत्र सम्यक् निवसामि। मम परीक्षाफलम् अधुना प्रकाशितम्। नवमकक्षायाम् अहम् प्रथमश्रेण्याम् उत्तीर्णः। सर्वेषु छात्रेषु मम प्रथमं स्थानमस्ति। अधुना कानिचित् पुस्तकानि क्रेतव्यानि सन्ति। विद्यालयस्य शुल्कमपि देयमस्ति। अत: पञ्चसहस्रं रूप्यकाणि शीघ्रतया प्रेषयन्तु भवन्तः।
    अहं प्रत्यहं मातुः स्मरणं करोमि। अनुजः रमेशः कथम् अस्ति। भगिनी श्वेता प्रत्यहं पठनाय विद्यालयं गच्छति न वा। अहम् अवकाशे गृहम् आगमिष्यामि।
    भवदाशीर्वचसां प्रतीक्षायाम्
    भवत्पुत्रः
    रमेशः
    कक्षा 10
    वर्ग: 'ब'
    केन्द्रीय-विद्यालय:, दिल्ली

4. अन्य विषयाः

vi) अपठित गद्यांश

  • उत्साह: उदासीनता, निराशा चेति तिस्र: मनसः अवस्थाः।
    शिशव: ,
    सदा उत्साहशीला: इति विदितमेव। युवानः अपि प्रायेण उत्साहशीलाः।
    अनेके वृद्धा: अपि तथैव। वयसः उत्साहस्य च नास्ति सम्बन्धः। उत्साहः मानवस्य सहज: स्वभाव:। सः मनसः शरीरस्य च विकासाय भवति।
    शिशुः उत्साहेन सर्वं ग्रहीतुं, सर्वै: सह खादितुं सर्वै: सह खेलितुं च प्रवर्तते।
    प्रतिबन्धे कृते रोदिति। उपहासे कृते क्रोधं प्रकटयति किन्तु निराशो न भवति।

CBSE Quiz & Practice Test – MCQs, True/False Questions with Solutions